मराठी साहित्याचा डिजिटल खजिना.

    सीतारामस्तोत्र

    अयोध्यापुर-नेतारं मिथिलापुर-नायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥

    रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंश-समुद्भूतं सोमवंश-समुद्भवाम् ॥२॥
    पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥
    कौसल्यागर्भ-संभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीक-विशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥
    चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् । मत्त-मातङ्ग-गमनम् मत्त-हंस-वधू-गताम् ॥५॥
    चन्दनार्द्र-भुजामध्यं कुंकुमार्द्र-कुचस्थलीम् । चापालंकृत-हस्ताब्जं पद्मालंकृत-पाणिकाम् ॥६॥
    शरणागत-गोप्तारं प्रणिपाद-प्रसादिकाम् । कालमेघनिभं रामं कार्तस्वर-सम-प्रभाम् ॥७॥
    दिव्य-सिंहासनासीनं दिव्य-स्रग्वस्त्र-भूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षण-कांक्षिणौ ॥८॥
    अन्योन्य-सदृशाकारौ त्रैलोक्यगृहदंपती । इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥९॥
    अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः । तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥१०॥
    एवं श्रीराचन्द्रस्य जानक्याश्च विशेषतः । कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
    यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥११॥
    ॥इति हनूमत्कृत-सीताराम स्तोत्रं संपूर्णम्॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...