मराठी साहित्याचा डिजिटल खजिना.

    रामगीता

    ततो जगन्मंगलमङ्गलात्मना विधाय रामायणकीर्तिमुत्तमाम् ।

    चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा ॥ १ ॥
    सौमित्रिणा पृष्ट उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः ।
    राज्ञः प्रमत्तस्य नृपस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः ॥ २ ॥
    कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम् ।
    सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३ ॥
    सौमित्रिरुवाच ।
    त्वं शुद्धबोधोऽसि हि सर्व देहिनामात्मास्यधीशोऽसि निराकृतिः स्वयम् ।
    प्रतीयसे ज्ञानदृशां महामते पादाब्जभृंगाहितसंगसंगिनाम् ॥ ४ ॥
    अहं प्रपन्नोऽस्मि पदांबुजं प्रभो भवापवर्गं तव योगिभावितम् ।
    यथाञ्जसाज्ञानमपारवारिंधिं सुखं तरिष्यामि तथाऽनुशाधि माम् ॥ ५ ॥
    श्रुत्वाऽथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः ।
    विज्ञानमज्ञानतमःप्रशांतये श्रुतिप्रपन्नक्षितिपालभूषणः ॥ ६ ॥
    श्रीराम उवाच ॥
    आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः ।
    समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्‌गुरुमात्मलब्धये ॥ ७ ॥
    क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः ।
    धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रियाचक्रवदीर्यते भवः ॥ ८ ॥
    अज्ञानमेवास्य हि मूलकारणं तद्धानमेवात्र विधौ विधीयते ।
    विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम् ॥ ९ ॥
    नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमुद्भवेत् ।
    ततः पुनः संसृतिरप्यवारिता तस्माद्‌ बुधो ज्ञानविचारवान्भवेत् ॥ १० ॥
    ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम् ।
    कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥ ११ ॥
    कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
    ननु स्वतंत्रा ध्रुवकार्यकारणी विद्या न किंचिन्मनसाऽप्यपेक्षते ॥ १२ ॥
    न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान् ।
    तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥
    केचिद्वदंतीति वितर्कवादिनस्तदप्यसद्‌दृष्टविरोधकारणात् ।
    देहाभिमानादभिवर्धते क्रिया विद्यागताहङकृतितः प्रसिध्यति ॥ १४ ॥
    विशुद्धविज्ञानविरोचनञ्चिता विद्याऽत्मवृत्तिश्चरमेति भण्यते ।
    उदेति कर्माखिलकारकादिभिर्निहंति विद्याऽखिलकारकादिकम् ॥ १५ ॥
    तस्मात्त्यजेत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत् ।
    आत्मानुसंधानपरायणः सदा निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६ ॥
    यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम् ।
    नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७ ॥
    यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम् ।
    तदैव माया प्रविलीयतेऽञ्जसा सकारकाकारणमात्मसंसृतेः ॥ १८ ॥
    श्रुतिप्रमाणाऽभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी ।
    विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति ॥ १९ ॥
    यदि स्म नष्टा न पुनः प्रसूयते कर्ताऽहमस्येति मतिः कथं भवेत् ।
    तस्मात्स्वतंत्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला ॥ २० ॥
    सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।
    एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१ ॥
    विद्यासमत्वेन तु दर्शितस्त्वया ऋतुर्न दृष्टान्त उदाह्रतः समः ।
    फलैः पृथक्त्वाद्बहुकारकैः ऋतुः संसाध्यते ज्ञानमतो विपर्यम् ॥ २२ ॥
    सप्रत्यवायो ह्यहमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।
    तस्माद्‌बुधैस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्मविधिप्रकशितम् ॥ २३ ॥
    श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः ।
    विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकंपनः ॥ २४ ॥
    आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः ।
    तत्त्वंपदार्थौ परमात्मजिवकावसीति चैकात्म्यमथानयोर्भवेत् ॥ २५ ॥
    प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय संगृह्य तयोश्चिदात्मताम् ।
    संशोधितां लक्षणया च लक्षितां ज्ञाता स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥
    एकात्मकत्वाज्जहती न संभवेत्तथा जहल्लक्षणता विरोधतः ।
    सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्त्वंपदयोरदोषतः ॥ २७ ॥
    रसादिपंचीकृतभूतसंभवं भोगालयं दुःखसुखादिकर्मणाम् ।
    शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूलमुपाधिमत्मनः ॥ २८ ॥
    सूक्ष्मं मनोबुद्धिदशेन्द्रिर्यैर्युतं प्राणैरपंचीकृतभूतसंभवम् ।
    भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधः ॥ २९ ॥
    अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम् ।
    उपाधिभेदात्तु यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत् क्रमात् ॥ ३० ॥
    कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगात्स्फटिकोपलो यथा ।
    असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतोऽस्मिन्परितो विचारिते ॥ ३१ ॥
    बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः ।
    अन्योन्यतोऽस्मिन्व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥
    देहिन्द्रियप्राणमनश्चिदात्मनां संघादजस्त्रं परिवर्तते धियः ।
    वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवा ॥ ३३ ॥
    नेति प्रमाणेन निराकृतोखिलो ह्रदा समास्वादितचिद्धनामृतः ।
    त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाऽम्भः प्रजहाति तत्फलम् ॥ ३४ ॥
    कदाचिदात्मा न भृतो न जायते न क्षीयते नापि विवर्धते नवः ।
    निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽमयद्वयः ॥ ३५ ॥
    एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयते ।
    अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६ ॥
    यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुं विपश्‍चितः ।
    असर्पभूतेऽहिविभावनं यथा रज्ज्वादिके तद्वदपीश्‍वरे जगत् ॥ ३७ ॥
    विकल्पमायारहिते चिदात्मकेऽहङकार एष प्रथमः प्रकल्पितः ।
    अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ ३८ ॥
    इच्छादिरागादिसुखादिधर्मिकाः सदाः धियः संसृतिहेतवः परे ।
    यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः ॥ ३९ ॥
    अनाद्यविद्योद्भवबुद्धिबिंबितो जीवः प्रकाशोऽयमितीयते चितः ।
    आत्मा धियः साक्षितया पृथक् स्थितो बुध्या परिच्छिन्नपरः स एव हि ॥ ४० ॥
    चिद्बिंबसाक्ष्यात्मधियां प्रसंगतस्त्वेकत्र वातादनलाक्तलोहवत् ।
    अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥ ४१ ॥
    गुरोः सकाशादपि वेदवाक्यतः सञ्जातविद्यानुभवो निरीक्ष्य तम् ।
    स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥ ४२ ॥
    प्रकाशरूपोऽहमजोऽहमद्वयो सकृद्विभातोऽहमतिव निर्मलः ।
    विशुद्धविज्ञानघनो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥ ४३ ॥
    सदैव मुक्तोऽहमचिंत्यशक्तिमानतीन्द्रियज्ञानमविक्रियात्मकः ।
    अनंतपारोऽहमहर्निशं बुधैर्विभावितोऽहं ह्रदि वेदवादिभिः ॥ ४४ ॥
    एवं सदात्मानमखंडितात्मना विचार्यमाणस्य विशुद्धभावना ।
    हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः ॥ ४५ ॥
    विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलान्तराशयः ।
    विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः ॥ ४६ ॥
    विश्वं यदेतत्परमात्मदर्शनं विलाप येदात्मनि सर्वकारणे ।
    पूर्णश्चिदानंदमयोऽवतिष्ठते न वेद बाह्यं न च किंचिदान्तरम् ॥ ४७ ॥
    पूर्वं समाधेरखिलं विचिंतयेदोंकारमात्रं सचराचरं जगत् ।
    तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः ॥ ४८ ॥
    अकारसंज्ञः पुरुषो हि विश्वको ह्यु कारकस्तैजस ईर्यते क्रमात् ।
    प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९ ॥
    विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितः । त
    तो मकारं प्रविलाप्य तैजसं द्वितीयवर्णे प्रणवस्य चांतिमम् ॥ ५० ॥
    मकारमप्यात्मनि चिद्धने परे विलापयेत्प्राज्ञमपीह कारणम् ।
    सोऽहं परं ब्रह्म सदा विमुक्तिमद्विज्ञानदृङमुक्त उपाधितोऽमलः ॥ ५१ ॥
    एवं सदा जातपरात्मभावनः स्वानंदतुष्टः परिविस्मृताखिलः ।
    आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत् ॥ ५२ ॥
    एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेंद्रियगोचरस्य हि ।
    विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्‌गुणात्मनः ॥ ५३ ॥
    ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः ।
    प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ ५४ ॥
    आदौ च मध्ये च तथैव चान्ततो भवं विदित्वा भयशोककारणम् ।
    हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥ ५५ ॥
    आत्मन्यभेदेन विभावयनिदं भवत्यभेदेन मदात्मना तदा । य
    था जलं वारिनिधौ यथा पयः क्षीरे वियद्‌व्योम्न्यनिले यथानिलः ॥ ५६ ॥
    इत्थं यदीक्षेत हि लोक संस्थितो जगन्मृषैवेति विभावयन्मुनिह ।
    निराकृतत्वाच्छ्र तियुक्तिमानतो यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७ ॥
    यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत् ।
    श्रद्धालुरत्युर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं ह्रदि ॥ ५८ ॥
    रहस्यमेतच्छ्र तिसार संग्रहं मया विनिश्चित्य तवोदितं प्रिये ।
    यस्त्वेतदालोचयतीह बुद्धिमान्स मुच्यते पातकराशिभिः क्षणात् ॥ ५९ ॥
    भ्रातर्यदीदं परिदृश्यते जगन्मयैव सर्वं परिह्रग्य चेतसा ।
    मद्भावनाभावितशुद्धमानसः सुखी भवानन्दमयो निरामयः ॥ ६० ॥
    यः सेवते मामगुणं गुणात्परं ह्रदा कदा वा यदि वा गुणात्मकम् ।
    सोऽहं स्वपादांचितरेणुभिः स्पृशन् पुनामि लोकत्रितयं यथा रविः ॥ ६१ ॥
    विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव गीतम् ।
    यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः ॥ ६२ ॥
    इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकांडे रामगीता समाप्ता ।

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...