मराठी साहित्याचा डिजिटल खजिना.

    श्रीरामकृष्णसुप्रभातम्

    धर्मस्य हानिमभितः परिदृश्य शीघ्रं

    कामारपुष्कर इति प्रथिते समृद्धे ।
    ग्रामे सुविप्रसदने ह्यभिजात देव
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१॥
    बाल्ये समाध्यनुभवः सितपक्षिपङ्क्तिं
    मेघपटले समवापि येन ।
    ईशैक्यवेदनसुखं शिवरात्रिकाले
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥२॥
    नानाविधानयि सनातनधर्ममार्गान्
    क्रैस्तादिचित्रनियमान् परदेशधर्मान् ।
    आस्थाय चैक्यमनयोरनुभूतवांस्त्वं
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥३॥
    हे कालिकापदसरोरुहकृष्णभृङ्ग
    मातुः समस्तजगतामपि सारदायाः ।
    ऐक्यं ह्यदर्शि तरसा परमं त्वयैव
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥४॥
    राखालतारकहरींश्चनरेन्द्रनाथं
    अन्यान् विशुद्धमनसः शशिभूषणादीन् ।
    सर्वज्ञ आत्मवयुनं त्वमिहानुशास्सि
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥५॥
    नित्यं समाधिजसुखं निजबोधरूपं
    आस्वादयन् तव पदे शरणागतांश्च ।
    आनन्दयन् प्रशमयन्नुपतिष्ठसे त्वं
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥६॥
    स्वीकृत्य पापमखिलं शरणागतैर्यद्
    आजीवनं बहुकृतं दयया स्वदेहे ।
    तज्जातखेदनिवहं सहसे स्म नाथ
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥७॥
    प्रातः प्रणामकरणं तव पादपद्मे
    संसारदुःखहरणं सुलभं करोति ।
    मत्वेति भक्तिभरिताः प्रतिपालयन्ति
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥८॥
    गातुं स्तुतीस्तव जना अमृतायमानाः
    सम्प्राप्य दर्शनमिदं तव पादयोश्च ।
    धन्या नरेश भवितुं मिलिताः समीपं
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥९॥
    सन्दाय दर्शनसुखं शरणागतेभ्यो
    मोहान्धकारमखिलं त्वमपाकुरुष्व ।
    ज्ञानार्क भक्तिजलधे सकलार्तिहन्तः
    श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१०॥
    अहैतुकीति करुणा किल ते स्वभावो
    दुष्टाः कठोरहृदया अपि ते भजन्ते ।
    त्वामेव सर्वजगतां जननि प्रपात्रि
    श्रीसारदेश्वरि रमे तव सुप्रभातम् ॥११॥
    सुप्तांस्तु भारतजनान् स्ववचः प्रहारै-
    रुद्बोधयन् विवशयन् निजधर्ममार्गे ।
    प्रोत्साहयन् परमतां प्रकटीकरोषि
    वीरेशदत्तमहिमन् तव सुप्रभातम् ॥१२॥
    प्रातरुत्थाय यो देवं रामकृष्णं स्मरन् स्मरन् ।
    स्तोत्रमेतत्पठेद्भक्त्या सोऽमृतत्वाय कल्पते ॥१३॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...