मराठी साहित्याचा डिजिटल खजिना.

    श्रीराममङ्गलाशासनम्

    मङ्गलं कौशलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥१॥

    वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।  पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥२॥
    विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥३॥
    पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥४॥
    त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदयाय मङ्गलम् ॥५॥
    सौमित्रिणा च जानक्या चापबाणसिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥६॥
    दण्डकारायवासाय खरदूषणशत्रवे । गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥७॥
    सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम् ॥८॥
    हनुमत्समवेताय हरीशाभीष्टदायिने । बालिप्रमथानायास्तु महाधीराय मङ्गलम् ॥९॥
    श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥१०॥
    विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने । सर्वलोकशरण्याय श्रीराघवाय मङ्गलम् ॥११॥
    आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥१२॥
    ब्रह्मादिदेवसेव्याय ब्रह्मण्याय महात्मने । जानकीप्राणनाथाय रघुनाथाय मङ्गलम् ॥१३॥
    श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे । महते मम नाथाय रघुनाथाय मङ्गलम् ॥१४॥
    मङ्गलाशासनपरिर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यः सत्कृतायास्तु मङ्गलम् ॥१५॥
    रम्यजामातृमुनिना मङ्गलाशासनं कृतम् । त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥१६॥
    ॥इति श्रीवरवरमुनिस्वामिकृतश्रीराममङ्गलाशासनं सम्पूर्णम् ॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...