मराठी साहित्याचा डिजिटल खजिना.

    रामह्रदयम्

    ​ततो रामः स्वयं प्राह हनूमंतमुपस्थितम् । श्रृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ १ ॥

    आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि ॥ २ ॥
    प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः । बुद्ध्यवचिन्नचैतन्यमेकं पूर्णमथापरम् ॥ ३ ॥
    आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः । साभासबुद्धेः कर्तुत्वमविच्छिन्नेविकारिणि ॥ ४ ॥
    साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः । आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ॥ ५ ॥
    अविच्छिन्नं तु तद् ब्रह्म त्रिच्छेदस्तु विकल्पितः । विच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ॥ ६ ॥
    तत्त्वमस्यादिवाक्यैश्‍च साभासस्याहमस्तथा । ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ॥ ७ ॥
    तदाऽविद्या स्वकार्येश्च नश्यत्येव न संशयः । एतद्विज्ञाय मद्भावायोपपद्यते ॥ ८ ॥
    मद्भक्‍तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षःस्यात्तेषां जन्मशतैरपि ॥ ९ ॥
    इदं रहस्यं ह्रदयं ममात्मनो मयैव साक्षात्कथितं तवानघ ।
    मद्भक्तिहीनाय शठाय च त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ १० ॥
    इति श्रीमदध्यात्मरामायण-बालकांडोक्तं श्रीरामह्रदयं संपूर्णम् ।

    ​​​

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...