मराठी साहित्याचा डिजिटल खजिना.

    श्री मल्हारी माहात्म्य अध्याय २० वा

    ऋषिरुवाच ॥

    मुनीशश्रुतमस्माभिरष्टतीर्थफलंमहत् ॥ तथापि श्रोतुमिच्छामितीर्थान्यन्यानितेमुखात् ॥१॥
    सनत्कुमार उवाच ॥
    श्रूयतामृषयस्तीर्थफलंप्रेमपुर:सरम् ॥ मुख्यानांषष्टिमतुलांतीर्थानांकथयाम्यहम् ॥२॥
    रामतीर्थेमहापुण्येस्नात्वापश्येन्मणिद्विषम् ॥ सप्तजन्मकृतंपापंतत्क्षणादेवनश्यति ॥३॥
    स्नात्वामल्लेश्वरेतीर्थेमल्लारिंयस्तुपश्यति ॥ ब्रह्महत्त्यादिकंपापंतस्यनश्यतितत्क्षणात् ॥४॥
    स्नात्वासूर्याभिधेतीर्थेमासमेकंसुधीर्नर: ॥ मल्लारे:प्रांगणेनक्तंदिवंसेवेतबुद्धिमान् ॥५॥
    तस्याष्टादशकुष्ठानिनश्यंतिशिवतांव्रजेत् ॥ लभेतभोगानखिलान्यशोलक्ष्मींसुखायुषम् ॥६॥
    क्षेत्रस्यपूर्वदिग्भागेशोणतीर्थमनुत्तमम् ॥ तत्रस्नात्वाशिवंनत्वामुच्यतेदैन्यपातकै: ॥७॥
    वैतरण्यांतुय:स्नायात्सूर्येद्वोर्ग्रहणेनर: ॥ मल्लारिंचतत:पश्येद्विष्णुलोकंसगच्छति ॥८॥
    परशुरामाभिधंतीर्थंस्नानान्मुक्तिप्रदंनृणाम् ॥ शिवतीर्थेमहापुण्येस्त्रात्वापश्यतिय:शिवम् ॥९॥
    मोक्षार्थीलभतेमोक्षंभोगार्थीभोगमाप्नुयात् ॥ क्षेत्रस्यदक्षिणेभागेकोटितीर्थंमहाफलम्‍ ॥१०॥
    तत्रस्नातस्यपापानांशमायांतिकोटय: ॥ तत्समीपेमहापुण्यमश्वतीर्थंसुदुर्लभम्॥११॥
    तत्र स्नात्वाचदत्वाचस्वर्गंयांतिनरा:स्वयम् ॥ तत्सन्निधौशक्तितीर्थंशक्तिलोकप्रदायकम् ॥१२॥
    स्नानमात्रेणलोकानांभुक्तिंमुक्तिंमुक्तिंचयच्छति ॥ क्षेत्रस्यपूर्वदिग्भागेकुंडमौग्रंसुतीर्थकम् ॥१३॥
    तत्रस्नानेनदानेनदशयज्ञफलंलभेत् ॥ तीर्थंगणपतेस्तत्रस्नात्वायेलड्कान्बहून् ॥१४॥
    सदक्षिणान्ब्राह्मणेभ्य:प्रयच्छंतिगणाधिपम् ॥ अर्चयंतिनरास्तेषांविघ्नोदूरात्पलायते ॥१५॥
    भैरवेणस्वहस्तेनमृगयायांह्त:किटि: ॥ कालभैरवकुंडाख्यंजातंभैरवशासनात् ॥१६॥
    प्रयाग:संगमौनद्योर्यत्रन्यग्रोधपादप: ॥ आस्तेमहान्माघमासेरवावर्धोदितेनर: ॥१७॥
    तस्योदकस्पर्शमात्रान्मल्लारे:प्रियतांव्रजेत् ॥ स्नानेनलभतेमुक्तिंभोगान्मल्लारिशासनात् ॥१८॥
    य:स्नायान्मासमेकंतुप्रयागफलमुश्रते ॥ सर्वतीर्थेषुय:स्नायात्सवतीर्थेफलंचस: ॥१९॥
    तीर्थमेकादशाख्यंहितत्रैकादशवासरम् ॥ स्नात्वामल्लद्विषंपश्येद्रुद्रलोकेसपूज्यते ॥२०॥
    मल्यस्यवरुणंचास्त्रंयत्रशांतंमहीतले ॥ तत्राभूद्वारुणंतीर्थंस्नानान्मुक्तिप्रदंनृणाम् ॥२१॥
    यत्रप्रक्षालितौपादौपार्वत्यालीलयानिजौ ॥ तत्राभूत्पार्वतीतीर्थांभैरवेणाभिवंदितम् ॥२२॥
    यत्रोदबिंदुसंसिक्ताकोपाद्गंगामहींगता ॥ बभंडभैरवेणासौपार्वत्याचसदाशिव: ॥२३॥
    पार्वतीगंगयोरैक्यंगंगाह्मालसिकाभिधम् ॥ निर्ममेसूढंरंरुपंप्रीत्यांगेस्वेदधारयत् ॥२४॥
    शक्तित्वेनजगत्पूज्यं सुरासुरनमस्कृतम् ॥ तत्तीर्थस्नानमात्रेणसर्वान्भोगाल्लँभेत्पुमान् ॥२५॥
    अंतेगुरुमुखाज्ज्ञानंसच्चिदानंदविग्रहम् ॥ श्रुत्वावतारंमलारेर्नागै:प्रेमपुरंप्रति ॥२६॥
    भोगावतीप्रेषितात्रस्त्रानाद्यज्ञफलप्रदा ॥ अगस्त्योगौतमश्चात्रि:पुलस्त्योभृगुरंगिरा: ॥२७॥
    भारद्वाजोवसिष्ठश्चकश्यप:शौनकस्तथा ॥ जमदग्नीर्भागुरिश्चच्यवनश्चसनातना: ॥२८॥
    अंबरीष:सुराचार्य:कहोलश्चपराशर: ॥ मतंग:पौंड्रकश्चैवकौशिक:कण्वसंज्ञक: ॥२९॥
    वत्सोवैश्वानरोबोधिर्मांडव्य:कौंडनाभिध: ॥ व्यास:सांख्यायन:कुत्सोगालव: सौभारिर्यथा ॥३०॥
    वात्स्यायनश्चशांडिल्योमांडूकायनइत्यपि ॥ वाल्मीकश्चैवजाबालिरेभिर्यत्रकृतंतप: ॥३१॥
    तत्तत्तीर्थंतदाख्येयंनृणामुक्तिप्रदंशिवम् ॥ मल्लारेराज्ञनमात्रात्प्रेमपुरस्थितम् ॥३२॥
    ऋषिनामानितीर्थानिपंचत्रिंसद्‍द्विजोत्तमा: ॥ अग्निकुंडाभिधंतीर्थंस्नानमात्रेणयन्नृणाम्‍ ॥३३॥
    दहत्यश्रीपदंशीघ्रंमहतामेनसांचयम् ॥ यमतीर्थेतुय:स्नायात्सयमंनैवपश्यति ॥३४॥
    अवगाहेनकंदर्पतीर्थस्यसुभगोभवेत् ॥ स्नायाद्योब्रह्मणस्तीर्थेब्रह्मलोकमवाप्नुयात्॥३५॥
    स्नात्वाहरिहरेतीर्थेहरीशप्रियतांव्रजेत् ॥ कुबेरतीर्थेय:स्नायात्सधनीभवतिध्रुवम् ॥३६॥
    स्नानेनवायुतीर्थस्यबलवाञ्जायतेनर: ॥ देवेंद्रतीर्थेय:स्नायाद्देवेंद्रोजायतेनर: ॥३७॥
    महिभाषष्टितीर्थानांब्रह्मणा:समुदीरित: ॥ सुलभ:सर्वलोकानांभुक्तिमुक्तिफलप्रद: ॥३८॥
    इतिश्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्येषष्टितीर्थवर्णनंनामविंशतितमोऽध्याय: ॥२०॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...