मराठी साहित्याचा डिजिटल खजिना.

    श्री मल्हारी माहात्म्य अध्याय १९ वा

    ऋषय: ऊचु: ॥

    कलिकालमलध्वंसिमल्लारेश्चरितंश्रुतम् ॥ ब्रह्मनंदनतेवाक्यात्तेनाभून्न:कृतार्थता ॥१॥
    लब्धानिमंत्रवीर्याणिदारिद्रेणपलायितम् ॥ फलिष्यंतितपांसीहत्वत्प्रसादान्महामुने ॥२॥
    इदानींश्रोतुमिच्छामोमल्लनाथप्रभावत: ॥ मुनेप्रेमपुरस्थानितीर्थानित्वन्मुखांबुजात् ॥३॥
    सनत्कुमार उवाच ॥
    श्रृणुध्वंब्राह्मणायूयमस्मिन्न्प्रेमपुरोत्तमे ॥ सार्धंकोटित्रयंपुण्यंतीर्थानांवर्ततेऽधुना ॥४॥
    तेषांप्रशंशाकथनेनविभु:पद्मसंभव: ॥ नषण्मुखोनशेषोपिशोच्य:कोहंतथापिच ॥५॥
    मुखानांतत्रकेषाचित्कथयामिस्वभावत: ॥ श्रृणुध्वंब्राह्मणानृणांसर्वसिद्धिप्रदायकम् ॥६॥
    देवस्यचोत्तरेभागेशशक्तिकुंडुंतुतिष्ठति ॥ तत्रचांपेयषष्ठयांवाभानुवारेणवैधृतौ ॥७॥
    व्यतीपातेचसंक्रातौनवम्यामाश्विनस्यच ॥ चैत्रेचैवतथाषष्ठयांकार्तिक्यांकृत्तिकासुच ॥८॥
    अथवाजन्मनक्षत्रेस्नानंकृत्वाचमौनवान् ॥ मूलीभूत:स्थित:पूर्वविष्णुर्दैत्यंसमागत: ॥९॥
    मूलदेवइतिप्रोक्त:सुरै:संपूजित:स्वयम् ॥ संपूज्यघृतमारींचदेवींसिद्धिप्रदायिनीम् ॥१०॥
    यस्तुपश्यतिदेवेशंमलारिंपूजयत्यपि ॥ सप्तजन्मकृतंपापंदर्शनात्तस्यनश्यति ॥११॥
    ब्रह्मघ्नोवासुरापोवास्वर्णहृद्वृषलीपति: ॥ कृतघ्न:सुरभिघ्नश्चतथाविश्वासघातक: ॥१२॥  
    अगम्यागमनीयश्चपूजनाच्छुद्धिमाप्नुयात् ॥ लभंतेशाश्वतींलक्ष्मींराज्यवश्यंमहद्यश: ॥१३॥
    कैलासशिखरेवास:प्रज्वलंद्रत्नमंडपे ॥ भोगान्भुनाक्तिविविधान्यावच्चंद्रार्कतारका: ॥१४॥
    देवादाग्नेयदिग्‍भागेगयातीर्थंसुदुर्लभम् ॥ पदंतत्रास्तिमल्लारे:श्रृणुध्वंतद्‍द्विजोत्तमा: ॥१५॥
    तत्रस्त्रात्वातिलैर्युक्तंकुशदर्भैश्चसंयुतम् ॥ पिंडंददातियस्त्रत्रपदेगोत्रंसमुच्चरन् ॥१६॥
    पितृणामक्षयातृप्तिर्जायतेतस्यहेद्विजा: ॥ तत्राख्यानंपुरावृत्तंश्रृणुध्वंमेघवाहने ॥१७॥
    कल्पेपुराधनोत्साहेनगरेभून्महाधनी ॥ वणिक्‍चंद्राननस्तस्यपुत्रोभूत्कूटदुर्मति: ॥१८॥
    तेनकूटतुलांकृत्वावंचिता:क्रयविक्रये ॥ जनास्तेनैवपापेनवायसोभूद्विहंगम: ॥१९॥
    विचरन्सेवाछयाखेसौयावनालार्द्धकंदधन् ॥ प्रयातितस्यगलितंतच्चंचुपुटत:पदे ॥२०॥
    तेनतस्याभवत्तृप्ति:पितृणांतोषकारिणी ॥ विमुक्तस्तेनदेहेनययौस्वर्गंसनातनम् ॥२१॥
    देवादुत्तरदिग्भागेतीर्थंकपिलसंज्ञितम् ॥ तस्मिन्कपिलषष्ठयांय:स्नात्वामल्लारिभैरवम् ॥२२॥
    पूजयेदुत्तमै:पुष्पै:पाच्ययादूर्वयापिवा ॥ सयातिचर्मदेहेनस्वर्गंभोगप्रदंशिवम् ॥२३॥
    विनाकपिलषष्ठींचयादृशेतादृशेदिने ॥ स्नानमात्रंविधायैवमल्लारिंपश्यतिक्षणात् ॥२४॥
    तस्यप्राक्तनपापानिब्रह्महत्यासमानिच ॥ नश्यंतितत्क्षणादेवभोगान्भुंक्तेचशाश्वतान् ॥२५॥
    ईशानकोणेमल्लारेर्गुप्तंमल्लेश्वराभिधम् ॥ तीर्थंवापीमयंक्रोशमात्रेतिष्ठतिपुण्यदम् ॥२६॥
    तस्योदकस्यपानेनचूलकार्द्धेनतत्क्षणात् ॥ सर्वपापैर्विनिर्मुक्त:पुमान्यातिपरांगतिम्‍ ॥२७॥
    तत्रेतिहासमप्याद्यंकथयामासपद्मभू: ॥ श्रृणुतब्राह्मणास्तंचविश्वविस्मयकारकम् ॥२८॥
    ब्रह्मा उवाच ॥ पुरास्वारोचिषिमनौवर्तमानेप्रयागके ॥ क्षेत्रेक्षत्रीमहाबाहुर्दैवाद्दारिद्र्यपीडित: ॥२९॥
    चोर:सजातोमार्गेषुजघानब्राह्मनान्दश ॥ वधूवराणिसप्तैवसप्तकन्या:सुलक्षणा: ॥३०॥
    अगण्यान्‍ वणिजाञ्च्छूद्रान्पथिकान्धनशंकया ॥ वसन्नरण्येकस्मिंश्चिदसौव्याघ्रेणभक्षित: ॥३१॥
    यमलोकगतस्तत्रभुक्त्वाथनिरयांस्तत: ॥ तस्यपापेनपितर:कुंभीपाकेनियोजिता: ॥३२॥
    शेषकोल्बिषभोगायगर्दभोभूत्सपापवान् ॥ पत्तनेनगचूलाख्येसोमदत्तस्यमंदिरे ॥३३॥
    यात्राप्रसंगात्तेनासौभारवाट्‍सतुगर्दभ: ॥ आनीत:सोमदत्तेनतदाप्रेमपुरंप्रति ॥३४॥
    पीडितोसौतृषातत्रबद्धकीलेनवर्तते ॥ तत्तीर्थजलशेषस्तुकुंभस्तेनावलेहित: ॥३५॥
    तत्क्षणाद्गर्दभंरुपंत्यक्त्वापंचत्वमागत: ॥ स्वर्गंगतोऽथबुभुजेशक्रसामीप्यमागत: ॥३६॥
    स्त्रक्‍चंदनानिदिव्यानिकामिन्योमेनकामुखा: ॥ नृत्यंत:पितरस्तस्यकैलासंसहसागता: ॥३७॥
    सक्षत्रीसार्वभौमोभूत्सिंहविक्रमकेसरी ॥ पपालमेदिनींसर्वांसमुद्रवलयांकिताम्‍ ॥३८॥
    मल्लारेर्दक्षिणेभागेतीर्थंपापविनाशनम् ॥ तत्रस्त्रात्वासमालिंग्याश्वत्थंभैरवरुपिणम् ॥३९॥
    मल्लारिंचतत:पश्येत्सर्वपापै:प्रमुच्यते ॥ यत्कृतंपूर्वजै:पुंभिर्महापापादिकंमहत्‍ ॥४०॥
    यत्कृतंजन्मनांलक्षै:स्वयमंह:सुदुस्तरम् ॥ तत्सर्वंविलयंयातितस्यतीर्थस्यसेवनात् ॥४१॥
    तस्यकुंडस्यसामीप्येनंदिकुंडंतंतुवर्तते ॥ तत्रस्नातस्ययत्पुण्यखंश्रृणध्वंतद्‍द्विजोत्तमा: ॥४२॥
    गवांसुवर्णश्रृंगीणांलक्षंताम्रांशुकावृतम् ॥ दोहकांस्यैरपियुतंतथारौप्यखुरान्वितम्‍ ॥४३॥
    पयस्विनीनांसूर्येद्वोर्ग्रहणेमंत्रपूर्वकम् ॥ वेदविद्ध्य:प्रदानेनयत्फलंतद्भवेध्र्दुवम् ॥४४॥
    पुनर्मल्लारिदेवेशंय:पश्येत्परमेश्वरम् ॥ तस्यपुण्यस्यमाहात्म्यंब्रह्माजानातिवानवा ॥४५॥
    धन्वंतरशतादस्तिदेवादीशानकोणत: ॥ रुद्रकुंडंमहातीर्थंयोगिनामपिदुर्लभम्‍ ॥४६॥
    स्नानमात्रेणतत्रैवपुर्जन्मनविद्यते ॥ ज्ञानमुत्पद्यतेसद्य:स्वात्मन:परिपूर्णता ॥४७॥
    भोगेच्छुभिर्नतत्सेव्यंभवबंधविधूननम् ॥ श्रीगुरो:करुणापांगैर्यत्कृतंतद्भवेध्र्दुवम् ॥४८॥
    पुरातनमितीहासंश्रृणुध्वंतंद्विजोत्तमा: ॥ इंद्रनीलपुरेतिष्ठञ्छंभुदत्तोद्विज:पुरा ॥४९॥
    कर्मैकनिष्ठ:सततंसदाचारप्रिय:सदा ॥ नसाध्वितिकृतंकर्ममन्यतेहृदिसर्वदा ॥५०॥
    पुन:शंकाकुलंकर्मकरोत्येवसदादरात् ॥ कृत्वाविरुद्धंमनुतेविषादंगाहतेपुन: ॥५१॥
    इतिसंशयबुद्धेस्तुतस्याभूदायुष:क्षय: ॥ ततोसौर्धमसदनेपुण्यपापविचारणे ॥५२॥
    चित्रेणचित्रगुप्तेनकर्मतस्येतिनिश्चितम् ॥ कृत्वायद्वैदिकंकर्मवृथागतमितिस्फुटम् ॥५३॥
    मेनेतेनास्ययत्पापंयेनस्यान्नरकेस्थिति: ॥ सभुक्त्वानरकानुग्रान्कोटिजन्मशतानिच ॥५४॥
    अभूत्पक्षीसतत्तोर्थेपीत्वाचंच्वाजलंक्षणात् ॥ विमुक्त:पक्षिदेहेनब्राह्मणोभूत्सबुद्धिमान् ॥५५॥
    उत्पन्नंसहजंज्ञानंयेनपश्यतिचिन्मयम् ॥ विश्वंचराचरंस्वात्मरुपंजलतरंगवत्‍ ॥५६॥
    अंबुधाराभिधंतीर्थमुत्तरस्यांशिवालयात् ॥ तत्रस्नात्वांबुपीत्वाचमल्लारिंयस्तुपश्यति ॥५७॥
    मुच्यतेप्राक्तनै:पापै:सयातित्रिदशालयम् ॥ अत्रेतिहासमप्येकमवदन्नृषय: पुरा ॥५८॥
    आसीदवंत्यांकंदर्पोभूपति:श्रीप्रतापवान् ॥ तेनराज्यमदांधेनप्रलोभंप्रापिता:स्त्रिय: ॥५९॥
    अन्येषांदूतिकायोगैर्वस्त्रालंकारभूषणै: ॥ अन्यैओश्चविविधैर्भोगै:सुवर्णेनयदृच्छया ॥६०॥
    बभूवगोचरोमृत्यो:सराजाकालशासनात् ॥ लिंगदेहस्ययोगेनदूतैर्नीतोयमालयम् ॥६१॥
    बहुधातत्रनरकान्बुभुजेतीवदु:सहान्‍ ॥ चिरंततोभुक्तशेषपापभुक्त्यैभुवंययौ ॥६२॥
    विधात्राभृंगरुपेणसंसारेविनियोजित: ॥ कदाचिदंबुधारेस्मिन्सभृंगश्चाप्लुत:क्षणम् ॥६३॥
    स्थित:कल्हारकेयस्मिन्नुनंत्पूजनेनच ॥ तद्गंधलुब्धोभ्रमर:सहतेनशिवंययौ ॥६४॥
    अपश्यंस्तत्रमल्लारिंजहौभृंग:कलेवरम् ॥ पुन:कंदर्परुपोसौकंदर्प:क्षितिपालक: ॥६५॥
    बुभुजेसकलांपृथ्वींसाब्धिद्वीपांसपर्वताम् ॥ चंद्रांशुध्वलांकीर्तिलेभेधर्मरत: सदा ॥६६॥
    इतिश्रीब्रह्मांडपुराणेक्षेत्रखंडेश्रीमल्लारिमाहात्म्ये अष्टतीर्थवर्णनन्नामैकोनर्विशोऽध्याय: ॥१९॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...