मराठी साहित्याचा डिजिटल खजिना.

    श्रीराममंत्रराजस्तोत्रं

    श्रीरामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥

    राक्षसान्तकरो धीरो भक्‍तभाग्यविवर्धनः ॥१॥
    मरेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥
    जन्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥
    यदा यदा भवेद्‌ग्लानिर्धर्मस्य च तदा तदा ॥
    राक्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥
    महामोहकरी माया यत्प्रसादाद्विनश्यति ॥
    जघन्या अपि पूजाश्‍च पावना बहवोऽभवन् ॥४॥
    यस्य प्रसादतो जातो हनूमान् महतो महान् ॥
    जन्ममृत्युजरादुःखान्मुक्‍तोऽद्यापिविराजते ॥५॥
    यस्मात्परतरन्नास्ति यस्य नाम महद्यशः ॥
    रामं लोकाभिरामं तं व्रजामः शरणं मुदा ॥६॥
    ममैतयिति नः सर्वान् संसारात्तारयिष्यति ॥
    श्रीराम जयरामेति जय जयेति जपाद्‌धृवम् ॥७॥
    राम एव परब्रह्म राम एव परागतिः ॥
    मनः शान्तिकरोरामो मन्मथारिनमस्कृतः ॥८॥
    जयत्रययुतः श्रेष्ठो रामत्रययुतो मनुः ॥
    यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥९॥
    रामः श्रीसीतया युक्‍तः सर्वैश्‍वर्यद इत्यपि ॥
    मह्त्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥१०॥
    जय रामपदेनायं जयरुप इतीर्यते ॥
    यतोऽसौ जयरुपो हि जयार्हो जयदस्तथा ॥११॥
    जय जयेति पदेऽर्थोयं द्योतते सर्वरिद्धिदः ॥
    यस्मिन्न माया नाविद्या तस्मिन्मोहःकथं भवेत् ॥१२॥
    रामत्रये दाशरथिश्‍चेशो ब्रह्मेति कथ्यते ॥
    मरुद्रात्मजसन्त्राता मोचयेन्मदनादपि ॥१३॥
    श्रीरामेति पदं पूर्वं जय रामेति वै ततः ॥
    रामोऽत्र द्विर्जयात्पश्‍चाद्वर्तते मनुराजके ॥१४॥
    महासंसारव्यामोहान्मोचयत्याश्‍वयं मनुः ॥
    जपनीयः कीर्तनीयो मुदा सर्वैश्‍च सर्वदा ॥१५॥
    यक्षराक्षसभूताद्या पीडाऽनेन विनश्यति ॥
    रामो धनुर्धरो नित्यं संरक्षति पदे पदे ॥१६॥
    मदोन्मत्तनरैश्‍चापि न दुःखं लभते कदा ॥
    जन्मसन्तापचंद्रोऽयं ज्ञानविज्ञानदो मनुः ॥१७॥
    यत्र कुत्रापि जप्योऽयं शुचिर्वाप्यशुचिस्तथा ॥
    जपतः शान्तिमाप्नोति प्रशस्तोऽस्मिन् कलौ मतः ॥१८॥
    यज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् ॥
    रामेणैव पुरादिष्टः षडङगादिविवर्जितः ॥१९॥
    मरुत्सुतावताराय रामदासाय धीमते ॥
    श्रीरमवरयुक्‍तोऽयं सुलभोऽपि फलाधिकः ॥२०॥
    त्रैलोक्यपावनीपुण्या मुक्‍तिदा राघव स्तुतिः ॥
    भद्रं तनोतु लोकेषु गंगेव किल सर्वदा ॥
    इति श्रीरामदासानुग्रहीत रामपदकंजभृंगायमान
    श्रीश्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्रं संपूर्णम् ॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...