मराठी साहित्याचा डिजिटल खजिना.

    राम स्तोत्रे - रामायणम्

    कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥

    न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
    वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् । कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥१॥
    कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् । ताटकां निजघानाशु मातर्भूतं स एव मे ॥२॥
    यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना । शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥३॥
    जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः । उपयेमे च वदेहीं मातर्भूतं स एव मे ॥४॥
    सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् । यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥५॥
    कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम । इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥६॥
    चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः । लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥७॥
    सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः । बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥८॥
    रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् । अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥९॥
    आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् । सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥१०॥
    हृदयं सर्वभूतानां रामराज इति श्रूतः । श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥११॥
    ॥ॐ तत्सत्॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...