मराठी साहित्याचा डिजिटल खजिना.

    कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्रार्थना

    कावेरी भुजङ्ग स्तोत्रम् Kaveri Bhujangastotram

    कथं सह्यजन्ये सुरामे सजन्ये
    प्रसन्ने वदान्याः भवेयुर्वदान्ये ।
    सपापस्य मन्ये गतिमम्ब मान्ये
    कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥
    कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
    जलाक्रान्तरङ्गे जवोद्योतरङ्गे ।
    नभश्चुम्बिवन्येभसम्पद्विमान्ये
    नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥
    समा ते न लोके नदी ह्यत्र लोके
    हताशेषशोके लसत्तट्यशोके ।
    पिबन्तोऽम्बु ते के रमन्ते न नाके
    नमस्ते वदान्ये कवेरस्य कन्ये ॥ ३॥
    महापापिलोकानपि स्नानमात्रान्
    महापुण्यकृद्भिर्महत्कृत्यसद्भिः ।
    करोष्यम्ब सर्वान्सुराणां समानान्
    नमस्ते वदान्ये कवेरस्य कन्ये ॥ ४॥
    अविद्यान्तकर्त्री विशुद्धप्रदात्री
    सस्यस्यवृद्धिं तथाऽऽचारशीलम् ।
    ददास्यम्ब मुक्तिं विधूय प्रसकित्म्
    नमस्ते वदान्ये कवेरस्य कन्ये ॥ ५॥
    ॥ इति कावेरीभुजङ्गस्तोत्रम् सम्पूर्णम् ॥
    ************* 
    कावेरी प्रार्थना Kaveri Prarthana
    मरुद्धृते महाभागे महादेवि मनोहरे । सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥१॥
    सर्वपापक्षयकरे मम पापं विनाशय । कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥२॥
    देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि । सिन्धुवर्ये दयासिन्धो मामुद्धर दयांबुधे ॥३॥
    स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा । आयुष्यं देहि चारोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥४॥
    तासां च सरितां मध्ये सह्यकन्याघनाशिनि । कावेरि लोकविख्याता जनतापनिवारिणि ॥५॥
    इति ब्रह्माण्ड पुराणे कावेरी प्रार्थना ॥
    यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥
    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
    अधितिष्ठन्ति भूतानि उपादानकारणत्वेन ब्रह्मेति अधिष्ठानम् ।
    `मत्स्थानि सर्वभूतनि' ( गीता ९।४) इति भगवद्वचनात् ।
    यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥
    विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
    इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमग् सचता परुष्णिया ।
    असिक्निया मरुद्धृधे वितस्तया । अऽजीकीये शृणुह्या सुषोमया ॥
    कामकोटिपुरीं
    काञ्चीं कावेरीं च सरिद्वराम् । क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।
    ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ॥
    ( भविष्यन्ति नारायणपरायणाः ।)
    ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतां अप्सरोगणैः ॥
    अहं दक्षिणगङ्गेति विश्रुता वेदमूर्धनि । इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ॥
    कावेरि त्रिजन्मानः कावेरि सलिलाप्लुता । कावेरि वाताद्यै स्पृष्ठा यान्ति हरेःपदम् ॥
    ककारः कलुषं हन्ति, वेकारो वाञ्छितप्रदः । रीकारो मोक्षदो नृणां कावेरीत्यवधारय ॥
    वेलातीत श्रुतिपरिमलं वेधसांमौलि सेव्यं प्रादुर्भूतं कनकसरितस्सैकते हंसजुष्टे ।
    लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः पादांभोज प्रतिपलतु मे भावनादीर्घिकायाम् ॥
    महारहस्यं किञ्चात्र शृणुष्वात्यद्भुतं शुभे । ब्रवीमि दिव्यदृष्ट्याद्य सर्वशास्त्रेषु निश्चितम् ॥
    महापातकिनां पापं मोचयन्त्यः क्षणेन हि । गङ्गादिका महानद्यस्तीर्थानि च महान्ति च ॥
    मलीकृताश्च तत्पापैः अशक्तास्तद्विमोचने । शोचयन्त्यः परं देवं यान्ति लोकपितामहम् ॥
    तासां विशुद्धये ब्रह्मा सभायां मुनिभिः सह । सम्यग्विचार्य शास्त्रेषु वेदेषु च पुनः पुनः ॥
    हरिणा च ततः प्रोक्तं प्रायश्चित्तं विधास्यता । स्नास्यन्तु सह्यधात्र्यग्रे कावेर्यां तौलिसङ्गमे ॥
    षट्षष्टिकोटि तीर्थानि द्विसप्त-भुवनेषु च । तानि चायान्ति कावेर्यां स्वाघौघ-विनिवृत्तये ॥
    अहं तु वैखानस वालखिल्यैरन्यैः मुनीन्द्रैस्सनकादिभिश्च । सर्वत्र ते पुण्यतटे वसामि ॥
    विभूत्यै दाक्षिणत्यानां क्षेमाय विजयाय च । मया चैवाभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥
    अच्छ-स्वच्छ-लसद्-दुकूलवसनां पद्मासनाध्यायिनीं हस्त-न्यस्त-वराभयाब्ज-कलशां राकेन्दु-कोटि-प्रभाम् ।
    भास्वद्-भूषण-गन्ध-माल्य-रुचिरां चारु-प्रसन्नाननां श्रीगङ्गादि-समस्त-तीर्थ-निलयां ध्यायामि कावेरिकाम् ॥
    ॥ॐ तत्सत् ॥
    ************* 
    कावेर्यष्टकम्
    कावेरी अष्टकम Kaveri Ashtakam
    मरुद्वृधे मान्यजलप्रवाहे
    कवेरकन्ये नमतां शरण्ये ।
    मान्ये विधेर्मानसपुत्रि सौम्ये
    कावेरि कावेरि मम प्रसीद ॥ १॥
    देवेशवन्द्ये विमले नदीशि
    परात्परे पावनि नित्यपूर्णे ।
    समस्तलोकोत्तमतीर्थपादे
    कावेरि कावेरि मम प्रसीद ॥ २॥
    वेदानुवेद्ये विमलप्रवाहे
    विशुद्धयोगीन्द्रनिवासयोग्ये ।
    रङ्गेशभोगायतनात्तपारे
    कावेरि कावेरि मम प्रसीद ॥ ३॥
    भक्तानुकम्पे ह्यतिभाग्यलब्धे
    नित्ये जगन्मङ्गलदानशीले ।
    निरञ्जने दक्षिणदेशगङ्गे
    कावेरि कावेरि मम प्रसीद ॥ ४॥
    कलिप्रमादाखिलदोषनाशे
    कारुण्यपूर्णे कमलायताक्षे ।
    कदम्बकल्हारसुगन्धिपूरे
    कावेरि कावेरि मम प्रसीद ॥ ५॥
    अनन्तदिव्यामलमोक्षदात्रि
    दुरन्तसंसारविमोचनाङ्घ्र्ये
    सह्याचलोत्पन्नविश्वस्वरूपे
    कावेरि कावेरि मम प्रसीद ॥ ६॥
    देवालयापूरितदिव्यतीरे
    समस्तलोकोत्तमतीर्थमूर्धे
    काश्मीरभूःकल्पितचोलदेशे
    कावेरि कावेरि मम प्रसीद ॥ ७॥
    प्रसीद कल्याणगुणाभिरामे
    प्रसीद कावेरि मम प्रसीद
    प्रसीद कामादिहरे पवित्रे
    कावेरि कावेरि मम प्रसीद ॥ ८॥
    काकारो कल्मषं हन्ति
    वेकारो वाञ्छितप्रदः
    रीकारो मोक्षदो नॄणां
    कावेरीत्युच्यते बुधैः ॥ ९॥
    ॥ इति कावेर्यष्टकं सम्पूर्णम् ॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा

    वॉलपेपर

    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    promo banner 1 image
    Loading...